Books by subject and field: Index I Ancient Civilizations, Religion, Sociology & History I Societies, People, Celebrities, Nations, and Lifestyles I  Arts I Showbiz, Entertainment, Cinema, Performing Arts, Music, Opera, Theater, Hollywood, Stars I Dictionaries, Ancient Languages I Anunnaki and Ulema Anunnaki I UFOs, Alien & Extraterrestrials I Spirituality, Philosophy, Mysticism, Healing, Metaphysics, Energy, Occult, Science of Mind I Hospitality, Hotels, Restaurants, Leadership, Food & BeverageBooks in Spanish I Books at lulu.com I De Lafayette bestsellers I More best sellers on the next pageMore bestsellers P3   I Amazon 100 TOP RATED IN UFOs/Best 100 Books in UFOs I Sold out  I  Sold out Part 2 I Books in Spanish  I De Lafayette Radio ShowBOOKS: Coming Soon I MARIA ORSIC Social register of the 500... I UFOs & SUPERNATURAL MAGAZINE I Amazon.com Hot New Releases: The best-selling new & future releases in UFOs.I Hottest bestsellers on amazon.com I BESTSELLING AUTHOR IN FRANCE I Contact: delafayette6@aol.com

Maximillien de Lafayette new books in foreign languages French Français , German Deutsch, Italian Italiano, Spanish Español , Russian Pусский , Portuguese Português ,Turkish Türk , etc.) Czech , Slovak , Aramaic-Syriac-Assyrian , Sanskrit , Babylonian Assyrian

_____________________________________________________________________________________________________________

SANSKRIT: Books by Maximillien de Lafayette in Sanskrit and Pali

 

 

 

धियौ स्थितधमनिभिः (नालैः) बहिर्निस्सृज्यमानानि कम्पनानि उपयुज्य वस्तूनि दूरं नेतुम्, स्थलान्तरीकरणार्थम् आवश्यकं धीसामर्थ्यस्य उद्बोधनम् उलेमा तन्त्रस्य/अभ्यासस्य उद्देश्यम् । अत्र त्रीणि पदानि प्रयुक्तानि। प्रथमम्

(a)- गोदा गुडि वा । अस्यार्थस्तु श्रेष्ठः, प्रभावी, शक्तिशाली । द्वितीयम्

(b) – ह – अस्यार्थस्तु प्रथमम्, प्रथमकम्पनमिति । तृतीयम्

(c)– अबारी अब्री वा – अस्यार्थस्तु पारगमनं स्थलान्तरीकरणं वा ।

 

I. धमनेः (नालस्य) उद्बोधनम्

अत्र उपयुज्यमानानि तन्त्राणि भागशः मनस्सम्बन्धीनि भागशः देहसम्बन्धीनि । भवद्भिः मनोदैहिकमिति उल्लेखितुं शक्यते । यथा भवन्तः प्रारम्भिकस्तरे सन्तः, इदानीं भवतां धमनेः (नालस्य) उद्बोधनं जातमपि, यत्र ताडनं कर्तव्यं तत्रैव ताडनं कर्तुं भवन्तः न शक्ताः भवन्ति, किमर्थमिति चेत् भवतां धियौ तत् स्थानं कुत्रास्ति इति प्रज्ञां भवन्तः न प्राप्तवन्तः । कानिचन आसनानि काश्चन स्थितीश्च अनुभूय तदनन्तरमेव भवन्तः धियं प्रति संवेदनां प्रेषयितुं शक्ताः भवन्ति । एताः स्थितयः आन्तरिकस्नायौ आन्तरिककम्पनानि रचयन्ति, भवतां धीः नानि पठितुं शक्ता भवति । भवन्तः कल्पितमानसिकरेखाः (चिह्नान्) प्रेषयन्ति, ताः ये कोशाः कल्पनाशक्तिं सक्रियां कर्तुं कारणीभूताः तान् कोशान् सक्रियान् कुर्वन्ति । एकाग्रता-आत्मावलोकनशक्तिभ्यां भवतां धियौ तीव्ररूपेण क्रियाः प्रारब्धाः भवन्ति । एषः धियौ झेंकाररूपिकम्पनस्य कारणीभूतः भवति, धमन्यः (नालाः) तं संशोधयितुं प्रारभन्ते । तदनन्तरं धमन्यः (नालाः) तानि कम्पनानि वशीकुर्वन्ति संघटयन्ति च । तत्क्षणात् आरभ्य धमनिः एव वहति । सारांशकथनम् – काश्चन क्रियाः कुर्वाणः भवन्तः धमनिं (नालं) प्रति सन्देशं प्रेषयन्ति । एतत् कर्तुम् अल्पकालवकाशः आवश्यकः । किर्मर्थमिति चेत् प्रारम्भिकस्थितौ भवतां धमनिः (नालः) सन्देशं न गृह्णाति  अथवा यदि एषा (धमनी) गृह्णाति चेदपि, समीचीनतया व्याख्यापयितुं समर्थः न भवति । किमर्थमिति चेत् धमनी (नालः) इदानीं प्रतिशतं सम्पूर्णतया जागृता न अभवत् । अभ्यासस्य कारणात् एषा धमनी (एषः नालः) एतावन्तं सन्देशं प्रति परिचिता भवति, संकेतान् दातुं प्रारभते । एकैका क्रिया अपि स्वकीयान् संकेतान् वहति । अत्रैकः विषयः अवगाह्यः । भवन्तः एतानि तन्त्राणी विनोदार्थं न कुर्युः, एतानि सामान्यानि अपि क्रियां प्रति विना उद्देश्यं कार्यं न कुर्वन्ति, तान्यपि धनात्मक-उद्देश्ययुक्तानि प्रयोजनकारीणि च भवेयुः ।

 

II.मानसिकीं शक्तिं प्रयुज्य वस्तुचालनम् :

 पूर्वोक्तप्रकारेण भवतां विनोदार्थं न कुर्युः, एतानि सामान्यानि अपि क्रियां प्रति विना उद्देश्यं कार्यं न कुर्वन्ति, तान्यपि धनात्मक-उद्देश्ययुक्तानि प्रयोजनकारीणि च भवेयुः । अत्र यः कोपि  महान् उद्देश्यः एव भवेत् इति न सरलेन धनात्मकेन उद्देश्येन अलम् । एकं लघुतरं वस्तु उच्चासने स्थापयतु । भवन्तः तस्मात् टि काफी वा न पतत् इति सामान्यं प्रयोजनकारिणम् आशयं धृतवन्तः । भवन्तः उच्चासनस्य समीपे सुखकरे आसने (स्थितौ) उपविशति । एतानि तन्त्राणि उपविश्य एव कुर्युः, उत्थाय कर्तुं न यतेरन् । यदि उत्थाय भवन्तः कुर्वन्ति, असमतोलनात् पतनसम्भवः वर्तते । प्रारम्भिकस्तरे भारतरेण वस्तुना सह एतानि तन्त्राणि न कुर्युः । किन्तु यदि एतेषां तन्त्राणां प्रयोगः कथं कर्तव्यः इति अधीतवन्तश्चेत् तत्र प्रकृष्टशक्तेः प्राप्तेरनन्तरम् अधिकभारस्य वस्तुनः चयनं कुर्युः ।

III. सिद्धताकार्याणि: एतान् व्यायामान् प्रारब्धुं पंचदशदिनपूर्वमेव जीवनपद्धत्यां कानिचन व्यत्ययानि आनीतव्यानि ।

1. मद्यसारयुक्तानि सर्वाणि द्रव्यानि त्यजेयुः ।

2. धूमपानं (तमाखु) सर्वप्रकारकं मादकपदार्थं च त्यजेयुः ।

3. लैङ्गिकक्रियायाः दूरं वसेयुः ।

4. मांसाहारं न खादेयुः ।

5. पाके प्राणिसम्बन्धीनि पिष्टानि यानिकान्यपि न उपयुंजेयुः ।

 

IV. अभ्याससमये अवधारणीयाः विषयाः  

अभ्यासस्य समये केचन विषयाः समीचीनतया अवधारणीयाः ।

1. पादरक्षाः न धारणीयाः, भवतां पादौ भूस्पर्शनं कुर्याताम् ।

2. लोहकृतपदार्थान् न धरेयुः ।

3. तस्मिन् प्रकोष्ठे तत्समये अन्यानां जनानां प्राणिनां वा प्रवेशाय अवकाशः न देयः । सम्पूर्णतया गोपनं प्रकल्पनीयम् ।

4. तस्मिन् प्रकोष्ठे भवतः सकाशे किमपि स्फटिकनिर्मितवस्तु न भवेत् ।